क्षमा प्रार्थना

न मंत्रं नोयंत्रं तदपिच नजाने स्तुतिमहो

न चाह्वानं ध्यानं तदपिच नजाने स्तुतिकथाः ।

नजाने मुद्रास्ते तदपिच नजाने विलपनं

परं जाने मातस्त्व दनुसरणं क्लेशहरणं

 

विधेरज्ञानेन द्रविणविरहेणालसतया

विधेयाशक्यत्वात्तव चरणयोर्याच्युतिरभूत् ।

तदेतत् क्षंतव्यं जननि सकलोद्धारिणि शिवे

कुपुत्रो जायेत क्वचिदपि कुमाता न भवति

 

पृथिव्यां पुत्रास्ते जननि बहवः संति सरलाः

परं तेषां मध्ये विरलतरलोहं तव सुतः ।

मदीयो7यंत्यागः समुचितमिदं नो तव शिवे

कुपुत्रो जायेत् क्वचिदपि कुमाता न भवति

 

जगन्मातर्मातस्तव चरणसेवा न रचिता

न वा दत्तं देवि द्रविणमपि भूयस्तव मया ।

तथापित्वं स्नेहं मयि निरुपमं यत्प्रकुरुषे

कुपुत्रो जायेत क्वचिदप कुमाता न भवति

 

परित्यक्तादेवा विविध सेवाकुलतया

मया पंचाशीतेरधिकमपनीते तु वयसि

इदानींचेन्मातः तव यदि कृपा

नापि भविता निरालंबो लंबोदर जननि कं यामि शरणं

 

श्वपाको जल्पाको भवति मधुपाकोपमगिरा

निरातंको रंको विहरति चिरं कोटिकनकैः

तवापर्णे कर्णे विशति मनुवर्णे फलमिदं

जनः को जानीते जननि जपनीयं जपविधौ

 

चिताभस्म लेपो गरलमशनं दिक्पटधरो

जटाधारी कंठे भुजगपतहारी पशुपतिः

कपाली भूतेशो भजति जगदीशैकपदवीं

भवानि त्वत्पाणिग्रहणपरिपाटीफलमिदं

 

न मोक्षस्याकांक्षा भवविभव वांछापिचनमे

न विज्ञानापेक्षा शशिमुखि सुखेच्छापि न पुनः

अतस्त्वां सुयाचे जननि जननं यातु मम वै

मृडाणी रुद्राणी शिवशिव भवानीति जपतः

 

नाराधितासि विधिना विविधोपचारैः

किं रूक्षचिंतन परैर्नकृतं वचोभिः

श्यामे त्वमेव यदि किंचन मय्यनाधे

धत्से कृपामुचितमंब परं तवैव

 

आपत्सु मग्नः स्मरणं त्वदीयं

करोमि दुर्गे करुणार्णवेशि

नैतच्छदत्वं मम भावयेथाः

क्षुधातृषार्ता जननीं स्मरंति

 

जगदंब विचित्रमत्र किं

परिपूर्ण करुणास्ति चिन्मयि

अपराधपरंपरावृतं नहि माता

समुपेक्षते सुतं

 

मत्समः पातकी नास्ति

पापघ्नी त्वत्समा नहि

एवं ज्ञात्वा महादेवि

यथायोग्यं तथा कुरु